________________
पैत्र्येकर्मणिदौहित्रस्योरसत्वम् २५६७ तत्समस्त्व(त्वौरसस्तजः(स् ) तजश्चापि तथाविधः । इत्युक्त्वा नर्तनं चक्रुः मातामह्यादिकानगाः ॥७२३।। दौहित्रजनने पूर्व तस्माद्दौहित्रसंनिभः । पितृणां तृप्तिदं(दो) कोऽपि नास्त्येव धरणीतले ॥७२४॥ मात्रादित्रयसाम्येन तर्पणे समुपस्थिते । तेषांच्यञ्जलिदस्सोऽयमेको दौहित्र उच्यते ॥७२।। तद्दत्तमुदकं तासां परं त्र्यञ्जलिसंख्यया। नवकं तत्पृथक्त्वेन महापद्मादिसंभवम् ॥७२६॥ तस्माजगति यो मोहात् प्रसत्तौ तर्पणस्य चेत् । दुहितातनयो मूढः(स्) तासामेकादिकाञ्जलिम् ।।७२७॥ सामान्यनारी बुद्धथा वै कुर्यादौहित्रपात्रतः। तासां शेवधिहर्ता स्यात् तच्छापस्यापि पात्रताम् ।।७२८॥ प्रयात्ययं सद्य एव तस्मात्तन्न तथाचरेत् । अत्र भूयः प्रवक्ष्यामि निष्कृष्टार्थमिदं रहः ॥७२।। सापत्नी जननी पत्न्योरन्वहं द्वयञ्जली स्मृते । मातामही मातृवर्गद्वयं व्यञ्जलिभाजनम् ॥७३०।। तर्पणेष्वखिलेष्वेनं (व) सर्वशास्त्रसुनिश्चितम् । दौहित्र्यपुत्रवान्नैव भवेल्लोके द्विजातिषु ॥७३१॥ विशेषेण समाख्यातः (तो) भर्तृ पुत्रादयोऽवरः । सपिण्डोऽपि तथैवस्यात्तत्कथं चेतिचेत्तदा ॥७३२।। निरूप्यते च सुस्पष्टं सपिण्डे खलु केवलम् । पितामहस्यावयवाः पित्रादिद्वारतोऽति वै ॥७३३।।