________________
औरसपुत्रेषुज्येष्ठता
२५६५ अपुत्रः प्रार्थनापूर्व दत्तोऽयं यदि तत्सुतः। श्रीमानेव तदा सोऽयं समभागी भवेद्ध्वम् ।।७०१॥ भ्रातृपुत्रं ज्ञातिपुत्रः बन्धुपुत्रोऽथ वा धनी। निरपेक्षोऽस्य सौभाग्ये ग्राहकप्रार्थनादिभिः ॥७०२॥ पुत्रत्वं समनुप्राप्तः निर्धनस्य विशेषतः । दत्तश्च कृपया तूष्णीमौरसादधिकोऽप्यति ॥७०३॥ पुनस्सत्कुलजो न्यूनकुलाय यदि केवलम् । दत्तः स्यात्तु तदासोऽयं विभागे समुपस्थिते ॥७०४॥ तुल्यो भवेदौरसेन न पित्र्येषु तु सर्वदा।
औरसो ज्यैष्ठयमाप्नोति पितृकर्मणि दत्ततः ॥७०५॥ वयसा चर्यया विद्याज्ञानाभ्यामधिकोऽपि वा। दत्तः पैतृककृत्येषु न्यूनएव भवेद्धृ वम् ॥७०६॥ जातेन्द्रियाणां दौर्बल्ये तु(दु)हिता तनये सति । अवशादसु (१) सन्देहो पुत्रग्रहणमुच्यते ॥७०७॥ पुत्रयोस्तनयाभावे नष्टयोरपि वै तयोः । पुत्रस्य कुर्याद्ग्रहणमिति वेदानुशासनम् ॥७०८॥ पौत्रे नप्तरि दौहित्रे सति वा पुत्रसंग्रहः । सर्वशास्त्रनिन्दिःस्यात् न तस्मात्तत्समाचरेत् ।।७०६।। आपन्निवारकस्सोऽयमापत्सापुत्रशून्यता। एक एव भवेन्नूनं दुहिता(तृतनयो मतः ॥७१०॥ दोहित्रे सतिपुत्रस्य ग्रहणं शास्त्रदूषितम् । कथं तदिति वा प्रोक्त स्पष्टतश्च तदुच्यते ॥७१।।