SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ २५६४ कपिलस्मृतिः तद्धस्तेनैव विधिना स्वमंत्रोक्त्या प्रचालयेत् । मर्यादेयं समाख्याता तत्क्रमे शास्त्रजालकैः ॥६६०॥ परंत्वत्रविशेषोऽस्ति यदि दत्तोऽन्यगोत्रजः। स्वीकृतस्तु तदापश्चाद्विभागे तुर्यभाग्भवेत् ॥६६॥ सगोत्रश्चेदयंत्वत्रतनयः श्रीमतःसतः। तत्पदानासहिष्णुभ्यामतिप्रार्थनयावशात् ॥६॥ दत्तस्तत्स्वीकृतश्चेत्तु पुनश्चशपथादिभिः। पित्रादिकृतमर्यादः यथा वा स्यात्तथा भवेत् ॥६३३॥ तेनायं समभागेव न तुरीयांशभाग्भवेत् । पुनः कोऽपि विशेषोऽत्र स्पष्टमेव निरूप्यते ॥६६४।। विभक्त भ्रातरं दीनं दरिद्र बन्धुमेव वा। अत्यंतकृपणं निस्वं पुत्री(?) दृष्ट्वा कृपापरः ॥६६॥ तद्रक्षणाय तनयं स्वीयं दत्वा श्रियं पुनः। दत्ते समुद्धरेत्श्रीमान् ततस्तस्य च दैवतः॥६६६॥ संजातस्तनयस्सोऽयमौरसो दुर्बलो भवेत् । दत्तपुत्रादिविज्ञेयः ज्येष्ठपत्नीसुतोऽप्ययम् ॥६६७।। ज्येष्ठपत्नीसुतस्यैव चौरसत्वं प्रकीर्तितम् । विभागोऽपि तथा ज्ञेयः समत्वेनैव सर्वतः ॥६६८॥ औरसस्य च दत्तस्य न्यूनत्वाधिक्ययोस्तदा । यथागामस्तथैव स्यात् निर्णयो धर्मतो मतः ॥६६६।। पुत्रग्राहकुसौभाग्यसंपच्छ्रीः प्राप्तये यदि। पुत्रत्वं प्रापितस्ताभ्यां दुर्बलः प्रभवेत्सुतः ॥७००।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy