SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ २५६० - कपिलस्मृतिः भूस्त्री तस्याः प्रदानेऽस्याधिकारः पुंस उच्यते । न स्त्री स्त्रियं स्वयं दातुं कथं शक्नोति धर्मतः ॥६४७।। पुंसश्चेद्वनितादानेऽधिकारो नित्य उच्यते । सर्वेषां सम्मतिश्चात्र मुख्यत्वेन निरूपितः ॥६४८।। भर्तुः पुत्रस्यपौत्रत्य नप्तुः पित्रोर्मतेन चेत् । भूप्रदानेऽधिकारःस्यात् वनितायाश्च संततम् ॥६४६॥ इत्येवं धर्मतःप्रोचुः निर्विवादेन चेन्न तु। पुरुषस्यापि तद्दाने निर्विवादेऽधिकारिता ॥६५०।। विवादेत्वधिकारित्वं न सिद्धथति कदाचन ॥६५। (पित्रापुत्रेणयन्मुखैराप्तः ब्रह्मचर्यात्परं परम् )। ( ब्रह्मचर्यणधियानित्यं कृतान्यपिविवादेत्वधिका )। पित्रापुत्रेणभा वा नप्तापौत्रेण वा सदा ॥६५२।। स्त्रियस्सनाथाः कथिताः रंडा:स्युश्चेत्तुरोदिताः। अनाथा हि कथं तासां भुवोदानेऽधिकारिता ॥६५३।। याजनेनाध्यापनेन प्रतिग्रहमुखेन च । विशुद्धागमसंप्राप्तभूवृत्तौ च सदा द्विजः ॥६५४।। निवसन्नित्यकर्माणि कुर्वन्धर्मेण देवताः। संप्रीणयन्मुखैराप्तः ब्रह्मचर्यात्परं परम् ॥६५।। ब्रह्मार्पणधिया नित्यं कृतान्यपि विभावयन् । पितृणां तनयद्वारा तहणं चर्तुसंगतः ॥६५६।। अपाकुर्वन् शास्त्रमार्गात् कृतार्थः प्रभवेदपि । अश्रोत्रियो न म्रियेत नाहिताग्निरसोमपाः ॥६५७)
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy