SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ २५८६ कपिलस्मृतिः रंडाभिस्ताहशीभिस्तु कृतं पाकं विगर्हितम् । गृहीत्यजेद्विशेषेण देवे पित्र्ये च कर्मणि ॥६०४ स्नुषा वा सोदरोवापि मातुलानी पितृष्वसा। मातृष्वसा ज्येष्ठपत्नी सोदरा वाथवा पुनः ॥६०।। पितृव्यपत्नीभगिनी तादृश्यो यदि संकटे । दैवपैतृककार्याय तासां पाकं न दुष्यति ॥६०६।। निशाकृतो रंडपाकः न प्राश्यस्सर्वदाभवेत् । सर्वेषामपि वर्णानामाश्रमाणां विगर्हितः ॥६०७॥ पत्नीसहोदराश्वभूस्वसृमातृपृथग्भवाः । प्रजावती गुरुपनी पुरोहितसती यदि ॥६०८।। श्यालकस्यसती दौहित्रस्यभार्या तथैव च । मातुलानी पितृव्यस्य पनी तस्यास्सहोदरी ॥६०६।। मातुलस्यस्नुषा कन्या सपिण्डायाः समीपकाः। तादृश्यो यदि तासां च पाकं रात्रिकृतं तु यत् ॥६१०।। भुक्त्वा तु संकटे विद्यात् मृत्युञ्जयममुं शिवम् । अष्टोत्तरशतं जप्त्वा पुनः श्रीमान्भवेदयम् ॥६११।। रंडा यदि स्नुषा तां वै श्वशुरोऽन्वहमेव वै। दानमानादिसत्कार्यैस्तन्मनः परितोषयन् ॥६१२|| प्रपालयेत्ता यत्नेन स्वयं पत्नीप्रजायुतः । तत्पालनात्तत्प्रदानात्तन्मनस्तोषणादपि ॥६१३॥ जन्मजन्मसुदीर्घायुः प्रजावान् धनधान्यवान् । नित्यारोग्यो नित्यभव्यः नित्यश्रीमानिराकुलः ॥६१४॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy