________________
वर्जितस्त्रीणांश्राद्धपाककरणेदोषवर्णनम् २५७६ सुखदोषनिमित्तेन स्पृष्टायाविधमुच्यते। पश्चात्तु रजसो भर्तुः संगम्प्राप्य या वशात् ॥५३०।। वैधव्यं समवाप्नोति सा स्पृष्टा विधवा परा। नष्टप्रजा काचिदेवं विधवान्या मनीषिभिः ॥३१॥ नष्टपुत्रेति सम्प्रोक्ता चायोग्या पाककर्मणि । एवं सपुत्रिणी चापि स्वभञ्जमरणात्परम् ॥३२॥ वैधव्यं समनुप्राप्ता सत्पुत्रविधवा स्मृता । सपुत्रा विधवा या तु तया पाकः कृतस्तु यः ॥५३३।। स स्वीकार्यों हि निखिलैः रण्डापाको न च स्मृतः । सर्वा रण्डाःपाककृत्ये दूःपिता स्युर्मनीषिभिः ॥५३४॥ ताभिर्यदि कृताःपाकाः कर्मिणां ब्रह्मवादिनाम् । वणिकानां गृहिणां यतीनां ब्रह्मचारिणाम् ॥५३।। न भक्षणैकयोग्याः स्युनैवेद्याय च नाकिनाम् । बलीनामपि होमानां नालमेवेति वेदहृत् ॥५३६।। रण्डापाकेन यो मोहाद्देवतानां निवेदनम् । होमं बलिं तथा भिक्षा कव्यं हव्यं न भोजनम् ।।५३७।। ब्राह्मणानां स्वस्य चापि कुर्याद्वाकारयेदपि । तत्सवं व्यर्थमेव स्याप्रत्युतप्रत्यवाय्यपि ॥५३८।। भवत्येव विशेषेण तस्मात्तासां प्रमादतः। त्यजेदेव विशेषेण पाकं कृत्स्नं विशेषतः ॥५३६।। तत्कृतेन तु पाकेन यो मोहाज्ज्ञानवर्जितः । श्राद्धं करोति पितरः तत्क्षणात्तस्य केवलम् ॥५४०॥