________________
दौहित्रप्राधान्यवर्णनम्
२५७५ दौहित्रसाम्यमात्रा येविभक्ता ह्यनु तस्य कुम् । नेच्छेयुरेव धर्मेण तामिच्छन्तः पतन्त्यधः।।४८७॥ विभागा ज्ञातयस्सर्वे भिन्नभिन्नाः स्मृताःपरम् । तत्तद्धनाना ते ते स्युःकरिश्वपृथगग्रहाः ॥४८८।। अपुत्रस्य धनं ज्ञातेर्विभक्तस्याखिलं भवेत् । दौहित्रस्यैव धर्मेण न ज्ञातेस्तु कथंचन ॥४८६।। ज्ञाती खलु सगोत्रस्य धनार्थं प्रेतकर्म यत् । तावन्मानं करोत्येव प्रत्यब्दश्च न चेतरत ॥४६०॥ दौहित्रश्चेद्धनाभावेऽप्यस्य सर्वेषु कर्मसु । पुत्रेण समतो नित्यं स्वविवाहानिलेऽद्भुते ॥४६।। असाधारणके मुख्येऽप्यनौकरणपूर्वकम् । ... सर्वश्राद्धानि नित्यानि करोत्येवाजुगुप्सितः ॥४६२॥ अमात्यो न तथा कापि किं करोति स्वगोत्रिणे । तस्मादभावे दौहित्रजनस्य किल तत्परम् ॥४६३।। असुतस्य धनं तत्तु प्रत्यासन्नः सपिण्डकः । यो वा सतु गृह्णीयादिति वेदानुशासनम् ।।४६४|| दौहित्राणामनेकेषां समवाये तदा किल । (श्राद्धानि नित्यानि करोत्ये वा जगुप्सितः)। यो वाऽत्यन्तं निर्धनः स्यात् सधर्मेण हरेद्धनम् ॥४६॥ समवाये निर्धनानां सर्व एव यथांशतः । पुनश्च निर्धनेष्वेषु धनिनस्तस्यतन्मनः ॥४६६।।