________________
२५७४
कपिलस्मृतिः न भिन्नग्रामिणा कार्यः क्रीतवृत्ति परिग्रहः । स्वीकारात्क्रीतवृत्तेस्तु वृत्तिमद्भिविशेषतः। तस्मिन्प्रामे न चान्यैस्तु कृता यदि न सिद्धयति ।।४७६।। ये प्रतिग्रहिणः पूर्व साक्षात्कर्तृ मुखात्परम् । अत्युत्तमाः कर्तृतुल्याः तत्सकाशप्रतिग्रही ॥४७७|| तत्तत्समो दुर्बलोऽयं यदि तेन समं कलौ । विवदेत्कार्यकालेषु सत्कार्येऽसौ महात्मभिः ॥४७८।। समानमपि वादं यः श्रुतं श्रुत्वा तु शक्तिमान् । तन्निग्रहमकुर्वाणो दुर्गति प्रतिपद्यते ॥४७६।। यदि स स्वामिको ग्रामस्तदा तन्मतपूर्वकम् । दानमाधि क्रयञ्चापि कुर्वीतैव न चान्यथा ॥४८०॥ ग्रामःसस्वामिको यो वा तस्मिन्वै तदनुज्ञया । क्रयादिदानकर्माणि कार्याणीति प्रचक्षते ॥४८॥ पुत्रपौत्रज्ञातिबन्धुसामन्ताद्यभ्यनुज्ञया। शुद्धचित्तेन यद्दत्तं तत्सिध्यति हि संततम् ॥४८२।। अन्वये सति भूदानं सहसा वनमाचरेत् । सर्वैरालोच्य सर्वेषां पर्याप्ता भूस्थिता यदि ॥४८३।। स्वगोत्रिणां सपिण्डानां समालोच्यैव केवलम् । वेदशास्त्रस्मृतिन्यायाविरोधेन ततः परम् ॥४८४॥ जनमत्या ज्ञातिमत्या बंधुमत्या सहादिषु । सर्वेषां पश्यतामारात् न्यायाप्तधरणी त्यजेत् ॥४४।। समीपज्ञातिदुष्टिश्चेद् भूदानाद्भिन्नगोत्रिणाम् । शक्यते हि तदा कत्तुं तहानं तु न चेञ्चरेत् ।।४८६।।