________________
दानप्रकरणवर्णनम्
२५७३ विशेषेण प्रदत्ताश्चेत्तत्तन्नाम्ना पृथक् पृथक् । अंशभेदेन तत्रापि तदा सर्वे तथा मताः॥४६॥ तावन्मात्रस्य कर्तारः मिलित्वा निखिला अपि । तस्मिन् ग्रामे तु कर्तारो निग्रहानुग्रहादिषु ॥४६६।। तत्तत्स्ववृत्तिषु परं कर्तृत्वं पृथगुच्यते । स्ववृत्तिभिन्नवृत्तीनां न कर्तारस्तु ते स्मृताः ॥४६७।। भूमेामादिरूपाया दत्तया स्वेन वान्यतः । प्रभुनराजा कथितः कर्त्तारोग्राहकाः स्मृताः ॥४६८।। तेह्यावश्यकस्यकार्यस्यकर्त्तव्यत्वे ह्यवस्थिते । तदा राजैव तत्कार्य कर्ता सम्यग्भवेद्धृवम् ॥४६॥ यतो हि जगतो राजा कर्ता दण्डयिता पिता । पालकश्च गुरुीकृत् निग्रहानुग्रहैकभूः ॥४७०।। एकद्वित्रिचतुर्वृत्तिमत्प्रभेदजनाश्रयः । ग्रामो यदि तदा तत्र तत्तन्मात्राधिकारिणः ॥४७१।। नाधिकस्य तु कर्तारः भवेयुरिति शास्त्रहृत् । सामान्यबलवत्कार्ये कर्त्तव्यत्वेन चागते ॥४७२।। सर्वे मिलित्वाकुर्वन्ति(वीरन्) एकबुद्ध्यैव नान्यथा । स स्वामिकग्राममध्ये बृहत्कार्ये निपातिते ॥४७३।। स्वाम्युक्तवर्त्मना सर्वे तत्कायं साध्यमित्ययम् । पक्षस्तु सर्वशास्त्राणां तत्र चापि स एव हि ॥४७४।। निर्वाहकः स्यादित्येव जाबालादिमतं परम् । अस्वामिकग्राममध्ये क्लप्तद्विजनिरन्तरे ॥४७॥