SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ २५७२ कपिलस्मृतिः शुद्ध सत्वेन सुस्पष्टमनाकाक्ष्यं परैरपि । यद्वस्तु दीयते तत्तु परलोकाय युज्यते ॥४५४|| यद्वस्तु स्यात्परप्राप्यं कालेन शनकैस्तु तत् । अदेयं सर्वथा प्रोक्तं चोरस्तद्ग्राहकश्च यः ॥४५५।। क्रयश्चतादृशस्यैव वस्तुनः विधिचोदितः । कर्त्तव्यत्वेन तद्भिन्नं वस्तुनो न कदाचन ॥४५६।। राजतत्तुल्यतर्भूत्यतत्प्रेष्यपितृबन्धुभिः । तत्समैर्बलवद्भिर्यहत्तं सिद्धयति संततम् ॥४५७।। तद्भिन्नैर्दुर्बलैरन्यैः दत्तं यच्छास्त्रवर्मना । विशुद्धागमनं प्राप्तं चेत्सिद्धयति न चेतरत् ॥४५८।। यस्य प्रदानकर्तृत्वं शास्त्रागमसुनिश्चितम् । तेनैव दत्तं सर्वत्र सिद्ध्यत्येव न चेतरत् ॥४५॥ प्रतिग्रहेण लब्धाय भूमिग्रामोऽथ वर्णकः । माद्याख्यस्सीमनामा वा विद्यासंभावनादितः ।।४६०।। तेषां प्रतिग्राहयिता यजमानस्स एव हि । कर्ता कारयिता चापि स्वामी गोप्ता प्रवर्ततः ।।४६१।। स एव सर्व कथितः निग्रहानुग्रहादिकृत् । यदि तेन कृतास्तेषु, वृत्तयो वर्णकादिषु ॥४६२।। कालेन दत्तासद्यो वा ताः पुनःस्वेच्छयाऽथवा । परप्रेरणया वापि स तासां पतिरेव हि ॥४६३।। राज्ञा तथा कृताश्चेत्तु वृत्तयो द्विजहेतवे । सामान्यतस्तदा कर्ता तत्र राजा प्रभुस्सदा ।।४६४||
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy