________________
२५७०
कपिलस्मृतिः चूणकुडमतकोल महौषधजलौकसाम् । पद्मोत्पलरमाजाजिकङ्गारहरिभूभुजाम् ॥४३२॥ गुड़ाज्यलवणक्षीरदधिकर्दमचूलिनाम् । हिरण्यरजतश्वेतकर्णिकाचटमालिनाम् ॥४३३।। धनानामपि धान्यानां सप्तानां पंचकात्मनाम् । महाचन्दनकाष्ठानां कर्पूरेलामरीचिनाम् ॥४३४॥ दिव्यानां देवपुष्पाणां क्रमुकाणां विशेषतः। फलानामपि शाकानां भूषणानां विशेषतः ॥४३।। कम्बलानां च दिव्यानां द्विपटानां सुपक्षणाम् । उष्णीषोत्तरधार्याणां माध्यानां मुखवासनाम् ॥४३६।। तिरस्करणिकानां च रज्जूनां दीर्घसूत्रिणाम् । शोभनोभयतो मुख्याः सवत्सायाः पृथक्पुनः ।।४३७।। गोसहस्रस्य चित्रस्य तिलपद्मस्य शूलिनः । शूलस्य दक्षिणामूर्तेरयसच्छागमेषयोः ॥४३८।। हिरण्यगर्भसंज्ञस्य लांगलस्य कपालिनः । साशिभ्राण(सलिंगस्य)महामूर्ते भस्मरुद्राक्षयोः पृथक।।४३६ महालिङ्गस्य लिङ्गस्य बाणलिङ्गस्य कर्मणः । ताम्रसीसादिपात्राणां दासीदासादि देहिनाम ॥४४०।। पुनरन्यानि दानानि पात्रदत्तानि शास्त्रतः । कामनारहितानि स्युः ब्रह्मज्ञानाय केवलम् ॥४४१।। पारमेश्वरतुल्यैकद्वारा नो चेत्तु वै पुनः। कृतानि कामतःसद्भिः तत्तत्कार्यकराण्यति ॥४४२॥