________________
२५६६
दानप्रकरणवर्णनम् विवादोऽयं परं त्वत्र तन्मात्रस्यैव जायते । न तस्य संततिः प्रोक्ता भिन्नगोत्रप्रदस्य चेत् ॥४२॥ आत्रिपूषं तत्सुतस्य तेन साकं तु पैतृके। परं सपिण्डिमारभ्य कुमार्गः संभवेत्खलु ॥४२२॥ तेन तावत्तस्य कुले जातानामात्रिपूर्षतः । विप्रत्वदन्यताज्ञाति भागसाम्यैक शून्यता ॥४२३।। न्यङ्गता नैच्यतातीव तज्जनाश्रयता तथा । तबन्धुमित्रपुत्रादि जनचित्तानुवर्तिता ॥४२४॥ एता भवन्ति सततं तस्मात्पुत्रं पिताहता । स्वल्पागतिं समीक्ष्यादौ न दद्याद्भिन्नगोत्रिणे ॥४२५।। पश्चात्तु तावता गाढं बाधकं प्रभविष्यति । येन केनापि दुर्वारमाचतुष्टयपूरुषम् ॥४२६।। सर्वदानानि सर्वैश्च कर्तव्यानि मनीषिभिः । शक्तौ सत्यां विशेषेण पुण्यकालेषु तेषु वै ॥४२७॥ वेदशास्त्रपुराणादि चोदितेषु युगादिषु । अोदये महोदये चन्द्र सूर्योपरागके ॥४२८॥ धरादानं प्रशंसन्ति सर्वदानोत्तमोत्तमम् । धेनुदानं वाहदानं गजदानं तदा न सः ॥४२६।। रथदानं वस्त्रदानं वार्षभं दानमेव च ।। शय्यादानन्तुलादानं कल्पवृक्षाख्यकं परम् ॥४३०॥ गोदानं रत्नदानञ्च पुष्पताम्बूलयोरपि । सुगंधं चन्दनमहो पवनोशीरसझनाम् ॥४३१॥