________________
दत्तकपुत्रप्रकरणवर्णनम्
२५६७ यदि जातस्सुतः सोऽयं सम्यक्शुद्धो न संशयः । स योगकर्मणां योग्यस्तदाद्यत्वे हि तत्कुले ॥३६॥ तद्योग्यता जायते च तावत् दत्तस्य संततिः । अयोग्यता कबलिता न्यंगनैच्यप्रपीडितः ॥४०॥ तद्दायाद्यशसाम्यादि कुण्ठिता श्रीबहिष्कृतः । स्वजनैकप्रसादश्रीकामुकास्तन्जनाश्रिताः ॥४०१॥ कुर्वती चातकी वृत्ति प्रतिष्ठति हि भूतले । कर्मठत्वसजातित्वतत्समत्वादिसिद्धये ॥४०२॥ पित्रादीनां त्रयाणाञ्च क्रमोक्तःसिद्धिरुत्तमा। यदा सञ्जायते सम्यक् प्रवरस्य च तत्कुले ।।४०३।। तथैव साम्यसिद्धिःस्यात् अंशभाक्त्वञ्च जायते । ब्राह्मण्यञ्च समीचीनं तथा यागाधिकारिता ॥४०४।। यथा पुत्रस्य तातस्य चोभयोभिन्नगोत्रता । तदेव त्रिदिनाशौचं संस्पष्टं मातुरेव च ॥४०॥ गांधर्वादिविवादस्तैयदि माता विवाहिता । तदा पितुः स्यात्रिदिनं तन्मृतौ सूतकं मतम् ॥४०६।। मातामहस्य गोत्रेण मातुः पिण्डोदकक्रियाः। कुर्वीत पुत्रिकापुत्र एवमाह प्रजापतिः ॥४०७॥ पितुश्चेत्सूतकं पूर्ण तथा मातामहस्य च । मातुलस्य च तत्पन्या यतस्तद्गोव्ययं स्मृतः ।।४०८।। यत्र मातुर्विवाहे तु दानं जातन्तु(तत्स्मृतः)शास्त्रतः । तत्र सप्तपदाख्यं च कर्म संजायते स्वतः ॥४०६।।