________________
२५६४
कपिलस्मृतिः तस्मादत्तसुत्तो लोके भिन्नगोत्रेषु कर्मसु । विवाहादिषु तवे द्रोहिणःस्युर्न संशयः ॥३७६।। ये देवहेलनपराः संत्यक्तस्वीयदेवताः। स्वदेवतासकाशान्ते च्यवन्ते नात्र संशयः ॥३७७।। तस्मात्परां गतिं दिव्यां प्राप्नुवंति न चैव हि । पापीयसो भविष्यंति भवेयुर्नरकालयाः ॥३७८।। तदाने तु यथापित्रोः सम्मतिः परमा भवेत् । तन्मातामहयोस्तद्वत् सम्मतिश्चतदायदि ॥३७६।। भवेदोषो नैव भवेदितिवेदानुशासनम् । यथा संत्यक्तपित्रादिः लोके भवति निन्दितः ॥३८॥ त्यतिमातामहश्चापि तथैवेति न संशयः । (तथैवस्यान्न संशय इतिपाठान्तरम् ।। दद्यातां दम्पती पुत्रं गृह्णीयाताञ्च दम्पती ॥३८॥ तयोरेवाधिकारोऽयं तदाने तत्प्रतिग्रहे । संप्रदाने तु पुत्रस्य तन्मातामहयोरपि ॥३८२।। अभ्यनुज्ञां विशेषेण कक्षिणीया तथा पुनः। पश्चापितामहादीनां बन्धूनामविशेषतः ॥३८३।। सतां गुरूणां महतां ज्ञातीनाञ्च सगोत्रिणाम् । तग्रामवासिनां चापि वणिजामधिपस्य च ॥३८४|| वृषलानामपि तथा तत्रत्यानांकृतात्मनाम् । सर्वेषामपि वर्णानां सम्मत्या तत्समाचरेत् ॥३८५।।