________________
नान्दीश्राद्धप्रकरणवर्णनम्
२५६३ अथापि नान्द्यां तस्यापि वैकल्यं जायते किल। प्रपितामहीपूर्व वै वृद्धशब्देनसंयुतम् ॥३६५।। समुच्चार्यास्तत्रदेवाः सप्तमस्त्वष्ट(षष्ठ)पंचमौ। त्रयस्त एते तद्वर्गयुगलं षट् किलाभवन् ॥३६६॥ मातामहाः सपत्नीकाः नान्दीयं नवदेवता। पितृवर्ग मातृवर्ग त्यजतेऽनेनशास्त्रतः ॥३६७।। स्वमातामहवर्गस्य भिन्नगोत्रस्य सांप्रतम् । जन्ममात्रैकसंप्राप्तिमतरत्यागः कथं भवेत् ॥३६८।। तञ्च तच्चद्वयंग्राह्य मातामहकुलं वरम् । मोहात्तथा न कुर्वन्ति तेनैते त्वघभागिनः ॥३६६।। भवत्येवावशात्तूष्णीं त्यक्तमातामहो यतः । पितरौ सुतदानस्य कालेशक्तौ स्वसंततेः ॥३७०।। कतुं च्युतेः स्वभिन्नस्य तद्गोत्रस्य च केवलम् । च्युतीकरणकार्याय कथं शक्तौ भविष्यतः ॥३७१।। मत्सुतागर्भसंभूतं शिशुमेनं तथाविधम । अस्मद्गोत्रैककर्तव्यं निवृत्तीकरणाय वै ॥३७२।। को युवामिति पृच्छन्ति दानकाले समागताः । तन्मातामहसंदोहाः पितृभ्यां किल यद्यपि ॥३७३।। दत्तोऽपि तैर्नदत्तो हि तन्मातामहवृन्दकैः । तदा मातामहाभ्याञ्च त्यक्तोऽयमितिमंत्रतः ॥३७४।। समुत्सृष्ट इतिप्रोक्त बाधकं न तदा भवेत् ।'३७।