________________
विप्रमहत्त्ववर्णनम्
२५६१ अथ पंगुजड़ोन्मत्तमूकादिसमभोजने । प्राजापत्यं प्रकथितं प्रायश्चित्तं द्विजोत्तमैः ॥३४४|| अंधस्य मंत्रसामर्थ्य यद्यप्यस्ति तथाप्यति । समीक्षणादि कृत्येषु यतो वैकल्यमेव तत् ।।३४५।। स्पष्टं प्रत्यक्षमेतत्तु न सर्वैस्सद्विजैस्समः । पङ्गोर्गमनकृत्येषु वैदिकेषु निरंतरम् ॥३४६॥ वैकल्यं स्पष्टमेवैतत् तद्द्वारा तस्य केवलम् । ब्राह्मण्यपरिपूर्तिन जडोन्मत्तौ तथैव हि ॥३४७॥ मूकस्य मंत्रसामान्याभावादेव निरन्तरम् । ब्राह्मण्यलेशोऽपि कथं तस्य स्यादिति पश्यत । ब्रह्मवीर्यक्षेत्रमात्रसमुत्पत्तिमहत्त्वतः । पुनस्तन्मंत्रकायैश्च न भवेद्भिन्नजातिकः ॥३४८।। दिव्यसम्पूर्णविप्रत्वमपि नास्ति ततःकिल । तत्तुर्यपंक्त योगेन क्षत्रवैश्यसमो ह्यतः ॥३४६।। क्षत्रादीनां विप्रसाम्यं कुतो नास्तीति चेदथ । प्रोच्यते कारणं तच्च तच्चोपनयनं महत् ॥३५०।। ऋतुव्यत्यस्ततः पूर्व व्यत्यासाद्वयसः परम् । दण्डभेदात् क्रियाभेदाद्विवाहादिविभेदतः ॥३५॥ वेदाध्ययनभेदाश्च तथा भिक्षाप्रभेदतः। तस्यास्य च महत्प्रोक्त तारतम्यं निरंतरम् ॥३५२।। तेन सर्वेऽपि विप्रस्य प्राप्नुवन्ति कथं महत् । साम्यं तत्सर्ववंद्य हि देवानामपिदुर्लभम् ॥३३॥