________________
२५६०
कपिलस्मृतिः वैदिके का(लौकिके कृत्ये न साम्यं स्यात्तु बंधुभिः । निखिलब्राह्मणैरन्यैः कृपया ते विमत्सरैः ॥३६४॥ पालनीया गोपनीया रक्षणीयाश्चसन्ततम् । स पंक्ति योग्य अस्पृश्याः द्विजाने नृपैस्समाः ।।३३।। क्षत्रियश्चेत्समा वैश्याद्र(त)श्ने(श्चे)ज्जघन्यजैः । न विप्र पंड्मा(क्तौ)राजन्यः सुस्थेयोभोजनादिषु ॥३३६।। एवं राजन्य पंक्तयाञ्चेदूरुजोज्ञयउच्यते । उरव्यपंक्तौ शूद्रोपि नोपविश्यतमो भवेत् ।।३३७॥ राजन्यग्रहमुक्तौ तु ब्राह्मणस्य पृथक्स्मृता । पंक्तौसदा तथा वैश्य(१)ग्रहभुक्तौनृपस्य च ॥३३८॥ विप्रस्य वा पृथक् पंक्तिर्न समान्यत्रकुत्रचित्(१) । पार्श्वयोरभिमुख्ये वा पश्चाद्वा पंक्तिरुच्यते ॥३३॥ सततं भिन्नजातीनां पश्चाच्छूद्रस्य नैकदा । समकालभुजः प्रोक्ता द्विजानां पंक्तिभेदतः । त्रयाणामप्येकदेवभोजनंविधिचोदितं ॥३४०॥ समानमु(भु)क्तिर्मर्यादात्तत्तज्जातिषु संततं । अंधपंगुजड़ोन्मत्तमूकादीनां तथैव वै ॥३४॥ समा पंक्तिः कदाचिन्न कर्मन्यूना यतस्तु ते । भिन्नपंक्तौ भोजनीयाः समकालेपि सन्ततं ॥३४२॥ समानपंक्तौयदि ते भोजिताः प्रत्यवायिनः । भवंत्येवात्र मंदेहा नैवेति ब्रह्मवादिनः ॥३४३॥