________________
श्राद्धप्रकरणवर्णनम्
२५५३ वैश्वदेवैककरणं देवपूजाकृतिश्च सा। द्वयमेतदनुष्ठानं न तु प्राणादिकं स्मृतम् ॥२८॥ अयमेव . महामार्गः श्राद्धीयेऽहनि संस्थिते । . पितृपूजानन्तरंतनिखिलं देवतार्चनम् ॥२५॥ ब्रह्मयज्ञादिकं कुर्यादन्यथा तद्विनश्यति । देवतार्च ननिर्माल्यं तच्छ्राद्धकरणे किल ॥२६॥ बाधकानि बहून्येव सम्भवंत्यपि केवलम् । ग्रहदेवार्चने विष्णो नैवेद्यायान्नमुत्तमम् ॥२६॥ सुखोष्णं कारयित्वैव पाकपात्रात्तदन्यके। कुर्यान्निवेदनमितितद्विधानं श्रुतीरितम् ॥२६२।। पैतृके कर्मणि पुनः यावदुष्णसमन्वितं । चुल्युस्मस्थितपात्रस्यादन्नमुधृत्य (१) यत्नतः ॥२६३॥ दध्यादिना ततो भूयः तत्पिधायोष्णसंस्थिते । तदुद्धृतं विप्रपात्रे निक्षिप्यशनकैस्ततः ॥२६४॥ अत्युष्णं परमान्नं तद्भक्षाण्यपितथैव (१) च । अत्युष्णान्यपि शाकानि सूपादीनि च कृत्स्नशः ॥२६॥ तेन मंत्रेण तत्प्रीत्यै पृथिवीत्यादिना तदा । दद्यादिति विधानं तत्पैतृकं तस्य चास्य च ॥२६६॥ धर्मभेदाद्विरुद्धं हि तच्छेषेण पुनः कथं । श्राद्धस्य कारणं युक्तं भवेदिति च पश्यतः ॥२६॥ निवेदताप्तरंछाध (?). तत्संकल्पादिकस्य तु । श्राद्धस्य दानपर्यन्तकालस्य घटिकाद्वयम् ॥२६॥