________________
२५५२
कपिलस्मृतिः विप्रोद्वासनतः पश्चादहालंकारणंतरं (१) । कर्तव्यत्वेन विहितं न चेच्छ्राद्ध निरर्थकम् ।।२४७॥ . तन्त्रं श्राद्धदिने यत्नावतान्तरपूजनम् । न कुर्यादेव नितरां यदि कुर्यात्प्रमादतः ॥२४८।। कुप्यंति विर(पितर)स्त्वेनं तस्मात्तं परिवर्जयेत् । दानाध्ययनदेवाश्च जपहोमव्रतादिकान् ॥२४॥ न कुर्याच्छ्राद्धदिवसे प्राग्विप्राणां विसर्जनात् । संनिधाने देवविप्रयोः श्राद्ध विधिनाशुचिः ।।२५०।। अक्रोधश्चात्वरोतीव पुनः स्नात्वा समाचरेत् । विश्वेदेवाविधाश्राद्ध नान्यान्देवान्समच येत् ॥२५१॥ सपिण्डीकरणे तस्मिन् विष्णुमन्त्रेति केन च । शिवं शैवाः समभ्यर्च्य केशवं वैष्णवा अपि ॥२५२।। श्राद्ध कर्त्तव्यमेवेति कुर्वन्ति प्रददन्ति च । न तथा वैदिका कुयुः किन्तु श्राद्धायरिं(?)पुनः ॥२५३।। भिन्नपाकावपूजावैश्वदेवादिकं चरेत् ।। देवपूजादिकं यत्तु प्रदक्षिणविधानतः ॥२५४।। यज्ञोपवीतिना कार्य पुण्ड्धारणपूर्वकम् । तत्पैतृकं कर्म यत्तदप्रदक्षिणपूर्वकम् ॥२५५।। प्राचीनावीतिनाकार्य नापुण्डरहितेन वै । तदेतत्कर्मयुगलं परस्परविलक्षणम् ॥२५६।। तेजस्तिमिररेत्मैततछेषेणैव (१) केवलम् । एतत्कमककरणं पितृशेषणतत्परम् ॥२५७||