________________
१८६४
ऽध्यायः]
श्राद्धविवेकवर्णनम् । दशम्याः पक्षिण्यसण्डियोनिसम्बन्धे सहाध्यायिनि च सब्रह्मचारिण्येकाहं श्रोत्रिये चोपसम्पन्ने प्रेतोपस्पर्शने दशरात्र माशौचमभिसन्धाय चेदुक्तं वैश्यशूद्रयोरार्तवीर्वापूर्वयोश्च त्र्यहं वाचार्यतत्पुत्रस्त्रीयाज्यशिष्येषु चैवमवरश्चेद्वर्णः पूर्व वर्णमुपस्पृशेत् पूर्वोवावरं तत्र शावोक्तमाशौचं पतित चण्डाल सूतिकोदक्याशवस्पृष्टितस्पृष्ट्यपस्पर्शने सचेलोदकोपस्पर्शनाच्छुद्धथेच्छवानुगमे च शुनश्च यदुपहन्यादित्येके उदकदानं सपिण्डः कृतचूडस्य तत्त्रीणाश्चानतिभोग एकेऽप्रदत्तानामधः शय्यासनिनो ब्रह्मचारिणः सर्वे न मायेरन मासं भक्षयेयुराप्रदानात् प्रथमतृतीयपञ्चमसप्तमनवमेषूदकक्रिया वासनाञ्च त्यागः अन्त्ये त्वन्त्यानां दन्तजन्मादि माता पितृभ्यां तूष्णीं माता बालदेशान्तरितप्रबूजितासपिण्डानां सद्यः शौचं राज्ञाच कार्यविरोधाद्ब्राह्मणस्य च स्वाध्याया निवृत्त्यर्थं स्वाध्यायानिवृत्त्यर्थम् । ' इति गौतमीये धर्मशास्त्रे चतुर्दशोऽध्यायः।
पञ्चदशोऽध्यायः।
अथ श्राद्धविवेकवर्णनम् । अथ श्राद्धममावस्यायां पितृभ्योदद्यात् पञ्चमीप्रभृति वापरपक्षस्य यथाश्राद्धं सर्वस्मिन् वा द्रव्यदेशब्राह्मण