________________
१८६८
गौतमस्मृतिः। [चतुर्दशोसत्यकर्मणा लद्देवराजब्राह्मणसंसदि स्यादब्राह्मणानां क्षुद्रपश्वनृते साक्षी दश हन्ति गोऽश्वपुरुषभूमिषु दशगुणोत्तरान् सर्व वा भूमौ हरणे नरकोभूमिवदप्सु मैथुनसंयोगे च पशुवन्मधुसर्पिषोर्गोवद्वस्त्रहिरण्यधान्यब्रह्मसु यानेष्वश्ववन्मिथ्यावचने याप्यो दण्ड्यश्च साक्षी नानृतवचने दोषोजीवनञ्चेत्तदधीनं नतु पापीयसोजीवनं राजा प्राडिवाकोबाह्मणोवा शास्त्रवित् प्राडिवाको मध्योभवेत् सम्बत्सरं प्रतीक्षेत प्रतिभायां धेन्वनदुहस्त्रीप्रजनसंयुक्तेषु शीघ्रमात्ययिके च सर्वधर्मेभ्योगरीयः प्राडिवाके सत्यवचनं सत्यवचनम् ।
इति गौतमीये धर्मशास्त्रे त्रयोदशोऽध्यायः ।
चतुर्दशोऽध्यायः ।
अथ अशौचवर्णनम् । शावमाशौचं दशरात्रमऋत्विग्दीक्षितब्रह्मचारिणां सपिण्डानामेकादशरात्रं क्षत्रियस्य द्वादशरात्रं वैश्यस्यार्द्ध मासमेकं मासं शूद्रस्य तञ्चदन्तः पुनरापतेत्तच्छेषेण शुद्धधरन् रात्रिशेषे द्वाभ्यां प्रभाते तिसृभिर्गोब्राह्मणहतानामन्वक्षं राजक्रोधाश्च युद्ध प्रायोनाशकशास्त्राग्निविषोदकोद्वन्धनप्रपतनैश्चच्छता पिण्ड निवृत्तिः सप्तमे पञ्चमे वा जननेऽप्येवं मातापित्रोस्तन्मातुर्वा गर्भमासस मा रात्रिः नसने गर्भय म्यहं वा श्रुत्वा चोवं