________________
१८६४ गौतमस्मृतिः। [एकादशो
निर्विष्टं वैश्यशूद्रयोनिध्यधिगमो राजधनं न ब्राह्मणस्याभिरूपस्याब्राह्मणो व्याख्यातः षष्ठं लभेतेत्येके चौरहतमुपजित्य यथास्थानं गमयेत् कोशाद्वा दद्याद्रक्ष्यं बालधनमाव्यवहारप्रापणात् समावृत्तेर्वा । वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकुसीदम् । शूद्रश्चतुर्थो वर्ण एकजातिस्तस्यापि सलामक्रोधः शौचमाचमनार्थे पाणिपादप्रक्षालनमेवैके श्राद्धकर्म भृत्यभरणं स्वदारवृत्ति परिचर्या चोत्तरेषां तेभ्यो वृत्तिं लिप्सेत जीर्णान्युपानच्छत्रवासः कूर्चान्युच्छिष्टाशनं शिल्पवृत्तिश्च यञ्चायमाश्रितोभर्तव्यस्तेन क्षीणोऽपि तेन चोत्तरस्तदर्थोऽस्य निचयः स्यादनुज्ञातोऽस्य नमस्कारोमन्त्रः पाकयज्ञैः स्वयं यजेतेत्येके । सर्वे चोत्तरोत्तरं परिचरेयुरार्यानार्ययोर्व्यतिक्षेपे कर्मणः साम्यं साम्यम् ।
इति गौतमीये धर्मशास्त्रे दशमोऽध्यायः।
एकादशोऽध्यायः।
अथ राजधमवर्णनम्। राजा सर्वस्येष्टे ब्राह्मणवर्ज साधुकारी स्यात् साधुवादी त्रय्यामान्वीक्षिक्याञ्चाभिविनीतः शुचिर्जितेन्द्रियोगुणवत्सहायो(ड)पायसम्पन्नः समः प्रजासु स्याद्धितञ्चासां कुर्वीत तमुपर्या