________________
वर्णानां वृत्तिवर्णनम् ।
दशमोऽध्यायः ।
अथ वर्णानां वृत्तिवर्णनम् । द्विजातीनामध्ययनमिज्या दानं ब्राह्मणस्याधिकाः पूवचनयाजनप्रतिग्रहाः पूर्वेषु नियमस्त्वाचार्यज्ञाति प्रियगुरुधनविद्याविनिमयेषु ब्रह्मणः सम्प्रदानमन्यत्र यथोक्तात् कृषिवाणिज्ये चास्वयं कृते कुसीदच्च ।
राज्ञोऽधिकं रक्षणं सर्वभूतानां न्याय्यदण्डत्वं बिभृयात् ब्राह्मणान् श्रोत्रियान् निरुत्साहांश्चब्राह्मणानकर श्चोपकुर्वाणांश्च योग विजये भये विशेषेण चर्या च रथधनुर्भ्यां संग्रामे संस्थानमनिवृत्तिश्च न दोषोहिंसायामाहवेऽन्यत्र व्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेशपराङ्मुखोपविष्ठस्थल वृक्षारूढदूतगोब्राह्मणवादिभ्यः क्षत्रियश्चेदन्यस्तमुपजीवेत्तवृत्तिः स्यात् जेता लभेत सांग्रामिकं वित्तं वाहनन्तु राज्ञउद्धारचा पृथग्जयेऽन्यत्तु यथाहं भाजयेद्राजा राज्ञे बलिदानं कर्षकैदशमष्टमं षष्ठं वा पशुहिरण्ययोरप्येके पश्चाशद्भागं विंशतिभागः शुक्लः पण्ये मूलफलपुष्पौषधमधुमांसतृणेन्धनानां षष्ठं तद्रक्षणधर्मित्वात्तेषु तु नित्ययुक्तः स्यादधिकेन वृत्तिः शिल्पिनोमासि मास्येकैकं कर्म कुर्युरेतेनात्मानोपजीविनो व्याख्याता नौचक्रीवन्तश्च भक्तं तेभ्यो दद्यात् पण्यं वणिग्भिरघांपचये न देयं प्रणष्टमस्वामिकमधिगम्य राज्ञे प्रब्रू युर्विख्याप्य सम्वत्सरं राज्ञा रक्ष्यमूर्ध्वमधिगन्तुश्चतुर्थं राज्ञः शेषः स्वामी ऋक्थक्रयसम्विभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं
Sध्यायः ]
१८६३