SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] राजधर्मवर्णनम् । १८६५ सीनमधस्था उपासीरन्नन्ये ब्राह्मणेभ्यस्तेऽप्येनं मन्येरन् वर्णानाश्रमांश्च न्यायतोऽभिरक्षेञ्चलतश्चैनान् स्वधर्मे स्थापयेद्धर्मस्थोमंशभाग्भवतीति विज्ञायते ब्राह्मणञ्च पुरोदधीत विद्याभिजनवाग्रूपवयः शीलसम्पन्नं न्यायवृत्तं तपस्विनं तत्प्रसूतः कर्माणि कुर्वीत ब्रह्मप्रसूतं हि क्षत्रमृध्यते न व्यथत इति च विज्ञायते यानि च देवोत्पातचिन्तकाः प्रब युस्तान्याद्रियेत तदधीनमपि ह्येके योगक्षेमं प्रतिजानते शान्तिपुण्याहस्वस्त्ययनायुष्यमङ्गलसंयुक्तान्याभ्युदयिकानि विद्वेषिणांसम्बलनमभिचारद्विषद्व्याधिसंयुक्तानि च शालाग्नौ कुर्याद्यथोक्तमृत्विजो'ऽन्यानि तस्य व्ववहारो वेदोधर्मशास्त्राण्यङ्गान्युपवेदाः पुराणं . देशजातिकुलधर्माश्चामायैरविरुद्धाः प्रमाणं कृषिवणिक्पाशुपाल्यकुसीदकारवः स्वे स्वे वर्गे तेभ्यो यथाधिकारमर्थान् प्रत्यवहृत्य धर्मव्यवस्था न्यायाधिगमे तर्कोऽभ्युपायस्तेनाभ्यूह्य यथास्थानं गमयेद्विप्रतिपत्तौ त्रयीविद्यावृद्ध भ्यः प्रत्यवहृत्यनिष्ठां गमयेदथाहास्य निःश्रेयसं भवति ब्रह्मक्षत्रेण सम्प्रवृत्तं देवपितृमनुष्यान धारयतीति विज्ञायते दण्डोदमनादित्याहुस्तेनादान्तान् दमयेद्वर्णाश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुः श्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते विष्वमो विपरीता . नश्यन्ति तानाचार्योपदेशोदण्डश्च पालयते तस्माद्राजाचार्या. वनिन्द्यावनिन्द्यौ। इति गौतमीये धर्मशास्त्र एकादशोऽध्यायः। ११६
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy