SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ १८८६ ऽध्यायः संस्कारवर्णनम्। वाससी क्षीरञ्च सविकारं मूलफलपुष्पौषधमधुमांसतृणोदकापथ्यानि पशवश्व हिंसासंयोगे पुरुषवशाकुमारीहेतवश्च नित्यं भूमिव्रीहियवाजाव्यश्च ऋषभधेन्वनडुहश्चैके। विनिमयस्तु रसानां रसैः पशूनाश्च न लवणाकृतान्नयोस्तिला- . नाश्च समेनामेन तु पकस्य संप्रत्यर्थे सर्वधातुवृत्तिरशक्तावशूद्रेण तदप्येक प्राणसंशये तद्वर्णसङ्करोऽभक्ष्यनियमस्तु प्राणसंशये ब्राह्मणोऽपि शस्त्रमाददीत राजन्योवैश्यकर्म वैश्यकर्म । इति गौतमीये धर्मशास्ले सप्तमोऽध्यायः । अष्टमोऽध्यायः। अथ संस्कारवर्णनम्। द्वौ लोके धृतवतौ राजा ब्राह्मणश्च बहुश्रुतस्तयोश्चतुर्विधस्य मनुष्यजातस्यान्तः संज्ञानाञ्चलनपतनसर्पणानामायत्तं जीवनं प्रसूतिरक्षणमसङ्करोधर्मः। स एष बहुश्रुतो भवति लोकवेदवेदाङ्गविद्वाकोवाक्येतिहासपुराणकुशलस्तदपेक्षस्तदवृत्तिश्चत्वारिंशता संस्कारैः संस्कृतत्रिषु कर्मस्वभिरतः षट्सु वासामयचारिकेष्वभिविनीतः षड्भिः परिहार्यो राज्ञा वध्यश्वावध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरिवाद्यश्चापरिहार्यश्चेति ।
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy