SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ १८८८ __ गौतमस्मृतिः। सप्तमोऽनियममेके नाविपोष्य स्त्रीणाममातृपितृव्यभार्याभगिनीनां नोपसंग्रहणं भ्रातृभार्याणां श्वश्राश्च । ऋत्विक्श्वशुरपितृव्यमातुलानान्तु यवीयसां प्रत्युत्थानमनभिवाद्यास्तथान्यः पूर्वः पौरोऽशीतिकावरः शूद्रोऽप्यपत्यसमेनावरोऽप्यार्यः शूद्रेण नाम चास्य वर्जयेद्राज्ञश्चाजपः प्रेष्यो भो भवन्निति वयस्यः समानेऽहनि जातो दशवर्षवृद्धः पौरः पञ्चभिः कलाभरः श्रोत्रियश्चारणत्रिभिः राजन्यो वैश्यकर्म विद्याहीनोदीक्षितस्य पाक्क्रयात् । वित्तबन्धुकर्मजातिविद्यावयांसि मान्यानि परबलीयांसि श्रुतन्तु सर्वेभ्योगरीयस्तन्मूलत्वाद्धर्मस्य श्रुतेश्च । चक्रिदशमीस्थाणुप्राह्यवधूस्नातकराजभ्यः पथोदानं राज्ञा तु श्रोत्रियाय श्रोत्रियाय । इति गौतमीये धर्मशास्त्रे षष्ठोऽध्यायः। सप्तमोऽध्यायः। अथापद्धर्मवर्णनम् । आपत्कल्पो ब्राह्मणस्याब्राह्मणाद्विद्योपयोगोऽनुगमनं शुश्रूषा समाप्तेाह्मणोगुरुजनाध्यापनप्रतिग्रहाः सर्वेषां पूर्वः पूर्वो गुरुस्तदलाभे क्षत्रवृत्तिस्तदलाभे वैश्यवृत्तिः। तस्यापण्यं गन्धरसकृतान्नतिलशाणक्षौमाजिनानि रक्तनिर्णिक्ते
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy