________________
ऽध्यायः] विवाहपकरणवर्णनम् । १८८५
असमानपूवरैविवाहऊवं सप्तमात् पितृबन्धुभ्योवीजिनश्च मातुबन्धुभ्यः पञ्चमात् । ब्राह्मोविद्याचारित्रबन्धुशीलसम्पन्नाय दद्यादाच्छाद्यालस्कृतां संयोगमन्त्रः पाजापत्ये सहधर्मञ्चरतामिति आर्षे गोमिथनं कन्यावते दद्यादन्तर्वेत्विजे दानं देवोऽलड्कृत्येच्छन्त्या स्वयं संयोगो गान्धर्वोवित्तेनानतिस्त्रीमतामासुरः पूसह्यादानाद्राक्षसोऽसंविज्ञानोपसङ्गमनात् पैशाचः । चत्वारो धाः प्रथमाः षडित्येके । अनुलोमानन्तरैकान्तरव्य तरासु जाताः सवर्णाम्वष्टोग्रनिषाददौष्मन्तपारशवाः। प्रतिलोमासु सूतमागधायोगवक्षत्तृवैदेदकचाण्डालाः । ब्राह्मण्यजनत् पुत्रान् वर्णेभ्य आनुपूर्व्यात् ब्राह्मणसूतमागधचाण्डालान् तेभ्य एव क्षत्रिया मूर्धावषिक्तक्षत्रियधीवरपुकशान् तेभ्य एव वैश्या भृजकण्ठकमाहिष्यवैश्यवैदेहान् तेभ्य एव पारशवयवनकरण शूद्रान् शूद्रेत्येके। वर्णान्तरगमनमुत्कर्षापकर्षाभ्यां सप्तमेन पञ्चमेन चाचार्याः । मृष्ट्यन्तरजातानाञ्च प्रतिलोमास्तु धर्महीनाः शूद्रायाश्च असमानायाञ्च शूद्रात् पतितवृत्तिरन्त्यः पापिष्ठ । पुनन्ति साधवः पुत्रास्त्रिपौरुषानार्षादश देवादशैव प्राजापत्यादशपूर्वान् दशावरानात्मानञ्च ब्राह्मीपुत्राः ।
इति गौतमीये धर्मशास्त्रे चतुर्थोऽध्यायः।