________________
ऽध्यायः] ब्रह्मचारि पूकरणवर्णनम् । १८८३
नेके युवतीनां । व्यवहारप्राप्तेन सार्ववर्णिकं भैक्षचरणमभिशस्तपतितवर्ज। आदिमध्यान्तेषु भवच्छब्दः पूयोज्यो वर्णानुपूर्वेण । .. आचार्यज्ञातिगुरुष्वलाभेऽन्यत्र। तेषां पूर्व परिहरन्निवेद्य गुरवेऽनुज्ञातोभुञ्जीत । असन्निधौ तद्भार्यापुत्रसब्रह्मचारिसद्भ्यः । वाग्यतस्तृप्यन्नलोलुप्यमानः सन्निधायोदकं स्पृशेत् ।। शिष्यशिष्टिरवधेनाशक्तोरज्जुवेणुविदलाभ्यां तनुभ्यामन्येन घ्नन् राज्ञा शास्यः। द्वादशवर्षाण्येकैकवेदे ब्रह्मचर्य चरेत् प्रतिद्वादशवर्षेषु ग्रहणान्तं वा। विद्यान्ते गुरुरर्थेन निमन्त्र्यः । ततः कृतानुज्ञानस्य स्नानम् । आचार्यः श्रेष्ठोगुरुणां मातेत्येके ।
इति गौतमीये धर्मशास्त्रे द्वितीयोऽध्यायः ।
तृतीयोऽध्यायः।
अथ ब्रह्मचारि पूकरणवर्णनम् । तस्याश्रमविकल्पमेके ब्रुवते ब्रह्मचारी गृहस्थोभिक्षुर्वैखानस इति तेषां गृहस्थो योनिरपूजनत्वादितपरेषाम् । तत्रोक्तं ब्रह्मचारिणआचार्याधीनत्वमात्रं गुरोः कर्मशेषेण जपेल् गुर्वभावे तदपत्यवृत्तिस्तदभावे वृद्ध सब्रह्मचारिण्यग्नौ वा।