________________
ऽध्यायः] ब्रह्मचारिधर्मवर्णनम् ।
१८८१ तदद्भिः पूर्वं मृदा च मूत्रपुरीषरेतोविलंसनाभ्यवहारसंयोगेषु च यत्र चाम्नायोविध्यात् । पाणिना सव्यमुपसंगृह्याङ्गुष्ठमधीहि भोइत्यामन्त्रयेत गुरुः । तत्र चक्षुर्मनः पाणोपस्पर्शनं दर्भे: प्राणायामात्रयः पञ्चदश-. मात्राः प्राक्कूलेष्वासनञ्च ॐपूर्वा व्याहृतयः पञ्चसप्तान्ताः। गुरोः पादोपसंग्रहणं प्रातर्ब्रह्मानुवचनेचाद्यन्तयोरनुज्ञात उपविशेत् । प्रामुखोदक्षिणतः शिष्य उदङ्मुखोवा सावित्रीञ्चानु वचनमादितो ब्रह्मणआदाने ॐकारस्याऽन्यत्रापि । अन्तरागमने पुनरुपसदनं श्वनकुलसर्पमण्डूकमार्जाराणां व्यहमुपवासोविप्रवासश्च प्राणायामा घृतप्राशनञ्चेतरेषाम् । श्मशानाध्ययने चैवम् ।
इति गौतमीये धर्मशास्त्रे प्रथमोऽध्यायः ।
द्वितीयोऽध्यायः।
अथ ब्रह्मचारिधर्मवर्णनम् । प्रागुपनयनात् कामचारावादभक्षोऽहुतोऽब्रह्मचारी यथोपपादमूत्रपुरीषो भवति नास्याचमनकल्पो विद्यतेऽन्यत्राप- . मार्जनप्रधावनावोक्षणेभ्यो न तदुपस्पर्शनाशौचं नत्वेवैनमग्नि