________________
१८८० गौतमस्मृतिः। [प्रथमो
मौञ्जीज्यामौर्वीसौत्र्यो मेखलाः क्रमेण कृष्णरुरुवस्ताजिनानि वासांसि शाणक्षौमचीरकुतपाः सर्वेषां कार्पासञ्चाविकृतम् । काषायमप्येके। वाक्षं ब्राह्मणस्य माञ्जिष्ठहारिद्रे इतरयोः वैल्वपालाशौ ब्राह्मणस्य दण्डावश्वत्थपैलवौ शेषे यज्ञिया वा सर्वेषामपीरिता यूपचक्राः सवल्कला मूर्द्धललाटनासाग्रप्रमाणाः । मुण्डजटिलशिखाजटाश्च । द्रव्यहस्त उच्छिष्टोऽनिधायाचामेद्रव्यशुद्धिः परिमार्जन प्रदाहतक्षणनिर्णेजनानि तैजसमात्तिकदायवतान्तवानां तैजसवदुपलमणिशङ्खशुक्तीनां दारुवदस्थिभूम्योरावपनञ्च भूमेश्चैलव द्रज्जुविदलचर्मणामुत्सर्गोवात्यन्तोपहतानाम् । प्राङ्मुखउदङ् मुखोवा शौचमारभेत्। शुचौ देशआसीनो दक्षिणं बाहुँ जान्वन्तरा कृत्वा यज्ञोपवीत्यामणिन्धनात् पाणी प्रक्षाल्यवाग्यतोहृदयंस्पृशंस्त्रिश्चतुर्वाखि रमा !] पआचामेद्विः प्रमृज्यात् पादौ चाभ्युक्षेत् खानि चोपस्पृशेच्छीषण्यानि मूर्धनि च दद्यात् । सुप्त्वा भुक्त्वा क्षुत्वा च पुनः। दन्तश्लिष्टेषु दन्तवदन्यत्र जिह्वाभिमर्षणात् । प्राक्च्युतेरित्येके। च्युतेरास्राववद्विद्यान्निगिरनेव तच्छुचिः। न मुख्याविपुष उच्छिष्टं कुर्वन्ति ताश्चेदङ्गे निपतन्ति । लेपगन्धापकर्षणे शौचममेध्यस्य ।