________________
२५२४
व्याघ्रपादस्मृतिः अपात्रेषु च पत्रेषु भिन्नदोषो न विद्यते । एक एव तु यो भुक्त विमले कांस्यभाजने ॥३४॥ चत्वारि तस्य वर्द्धन्ते आयुः प्रज्ञा यशोबलम् । कांस्यपात्रमनुज्ञातं विधवाब्रह्मचारिणौ ॥३०॥ यद्यन्यस्मै भोजनाय न कदाचित्प्रयच्छति । कर्मकाले, न कुर्वीत मुसलोलूखलध्वनिम् ॥३५॥ तथा संघट्टशूदेः संध्यायां च विशेषतः । निशायाः पश्चिमे यामे धान्यसंस्करणादिकम् ।।३५२।। श्रूयमाणं हि नारीणां श्रूतश्रेयोधनावहम् । श्रोत्रियान्नं च भक्षं च हुतशेषं च यद्धविः ॥३५३।। आनखाच्छोधयेत्पापं तुषाग्निमिव कांचनम् । मातुर्यद जायेत द्वितीयं मौंजीबन्धनम् ॥३५४॥ त्रितीयामग्निदीक्षी च त्रिजन्मपात्रमुत्तमम् । वृत्तिमन्तं शिल्पानि हीनादपि समाश्रयेत् ॥ राजद्रव्यं तु ये केचिद् वेदोदोषेण(?)गृह्यति ॥३५।। रजस्वलायां भार्यायां सूतके पर्वणि तथा । तैलाभ्यंगं न कुर्वीत संध्यासु श्राद्धकर्मणि ॥३५६।। अजागावो महिष्यश्च ब्राह्मणस्य प्रसूतिका । दशरात्रेण शुध्यंति भूमिस्थं च नवोदकम् ॥३५७।। अतः परं प्रवक्ष्यामि संध्योपासननिर्णयम् । अग्निहोत्र कृतैः पापैः यामुपास्य प्रमुच्यते ॥३५८।।