________________
२५२२ . . व्याघ्रपादस्मृतिः। . मासद्वयेऽपि तत्कार्य व्याघ्रस्य वचनं यथा । गयायां सर्वकाले च पिण्डं दद्यात् विचक्षणः ॥३२८॥ अधिमासे जन्मदिने अस्ते च गुरुशुक्रयोः। आदित्यकिरणैः पूतं पुनः पूतं च वहिना ॥३२॥ अतोव्याध्यातुरः स्नायाद् ग्रहणे चन्द्रसूर्ययोः । सूतके तु समुत्पन्ने स्मात कर्म मथं भवेत् ॥३३०॥ पिण्डजं चरुहोमं च सगोत्रेण न कारयेत् । स्पन्दनेषु द्विजातीनां भिन्नतो जनभोजने ॥३३॥ पंचगव्येन शुद्धिःस्याद् व्याघ्रस्य वचनं यथा। . पिण्डदानं मृदास्नानं तथैव तिलतर्पणम् ॥३३२॥ विदेशगमनं चैव न कुर्याद्गुर्विणीपतिः। पुंसोभार्या गुर्विणीतस्य नाशश्चौलं सूनो क्षौरकर्मात्मनश्च । गेहारम्भं पिण्डसंस्थापनं च वादीस्नानं तीर्थयात्रां न कुर्यात् भूभौ हस्तौ प्रतिष्ठाप्य मार्जनं चैव वर्जयेत् । न कुर्याद्यादि मूढात्मा रौरवं नरकं ब्रजेत् ।।३३४॥ गंगायां वापिकायां च तड़ागे च तथैव च । वामहस्ते जलं गृह्णन् न कुर्यान्मार्जनं द्विजः ॥३३।। पात्रस्थितोदकेनैव वामहस्तोदकेन वा। संध्यायां मार्जनं कृत्वा नान्ययोस्तु कदाचन ॥३३६।। उष्णोदकेन या सन्ध्या पदमध्ये तु मार्जनं । उपविश्य तु यत्राध्यं तत्सर्व निष्फलं भवेत् ॥३३७॥