________________
श्राद्धवर्णनम् । २५२१ ब्रह्मयशेन वै तद्वत्तथोंकारं तु नोश्चरेत् । . अन्वारब्धेन सव्येन दक्षिणेन तु पाणिना ॥३१८।। सव्योत्तराभ्यां पाणिभ्यामथवा तर्पणं भवेत् । . ऊर्ध्ववाहुरधोयामं खातं प्राकदक्षिणायतम् ॥३१६।। पंचारनिमिता तिर्यक् अधस्तादक्षिणायतम् । पंचारनिमितातिर्यगधस्ताद्वादशांगुलम् ॥ . पितुः पुत्रेण कर्तव्य प्रपितामहपूर्वकम् ॥३२०।। दैवात्प्रत्याब्दिके श्राद्ध अन्तरामृतस्तके। .. आंशौचानन्तरं कुर्यात्तन्मासेन्दुक्षयेरपि ॥३२॥ श्राद्ध विघ्न समुत्पन्ने ह्यविज्ञाते मृतेहनि । कुर्यादन्नेन कृष्णायामेकादश्यां विधुक्षये ॥३२२।। " आब्दिके चैव संप्राप्त आशौचं जायते यदि।
आशौचे तु व्यतिक्रान्ते तत्र श्राद्ध प्रदीयते ॥३२३॥ अपुत्रा तु यदाभार्या संप्राप्त भतुराब्दिके। . रजस्वला भवेत्सातु कुर्यात्तत्पंचमेऽहनि ॥३२४॥ अमाश्राद्ध गयाश्राद्ध श्राद्ध चापरपक्षगे। न जीवत्पितृकः कुर्यात्तिलैः कृष्णैश्च तर्पणम् ।।३२५।। भरणी प्रेतपक्षे तु महती परिकीर्तिता। अस्यां श्राद्धं कृतं येन स गयाश्राद्धकृद् भवेत् ॥३२६।। मासद्वयगतं श्राद्धं मलमासेऽपि शस्यते । . वर्षे वर्षे तु तच्छ्राद्धं मातापित्रोमृतेऽहनि ॥३२७॥