________________
२५२०
व्याघ्रपादस्मृतिः तैलाभावे गृहीतव्यं तैलं च तिलसंभवं । तदभावेऽतसीस्नेहैः कौसुभः सर्पपोद्भवः ॥३०७।। वृक्षस्नेहोथवा ग्राह्य पूर्वालाभे परः परः। तदलाभे यवब्रीहिः श्यामाकाभ्यन्तरोद्भवम् ॥३०८॥ पिष्टमालोड्यते येन घृतार्थे योजयेत्सुधीः । वृक्षतैलेषु पुनागं निबरण्डोद्भवं त्यजेत् ॥३०६॥ यद्वा गव्यं घृते छागं माहिष्यादेवृतं क्रमात् । तदलाभे गवादीनां क्रमाक्षीरं विधीयते ॥३१०॥ तदलाभे दधिग्राह्यमलाभे तैलमिष्यते । मुख्यासनौ यथा ग्राह्य कार्यकारणसंततौ ॥३११।। चणका राजामषाश्च रक्तायावन्नलास्तथा। श्यामाका मसूराश्चैव आढक्याश्च सचत्वका ॥३१२।। अग्राह्याः श्राद्धपाके च कुलिन्थाः सर्षपास्तथा। हविष्योगोधूमाश्चैव मुद्गामाषा यवास्तथा ॥३१३॥ तण्डुला ब्रीहयश्चैव कृष्णातिलास्तथैव च । आढक्यास्तुपरहिता शुभायावन्नलास्तथा ॥३१४॥ आर्द्र के नारिकेलं च रंभा जंबूश्च चूतकाः । ऐक्षवं वदरं चैव सैंधवं लवणं तथा ।।३१।। मरीचं च मधुश्चैव क्षौद्रं शुठिस्तथैव च । वसुरुद्रस्वरूपास्ते श्राद्धार्थे तर्पणे पितॄन् ॥३१६॥ नामगोत्रे समुश्चार्य तिलैस्तीर्थेषु संयुतः । न चस्मरेहषीश्छन्दान श्राद्ध वैतानिके मखे ॥३१७॥