________________
२५१४
व्याघ्रपादस्मृतिः विप्रपादाभिषेके तु कर्ता प्रत्यङ्मुखोभवेत् । दिवारात्राणि वा कुर्यात् नित्यश्राद्धं विधीयते ॥२४४।। रजस्वलायां भार्यायां मृताहं यः परित्यजेत् । स वै नरकमाप्नोति हन्ति देवान् पितृ स्तथा ॥२४॥ पंडितोज्ञानिनो वापि मूर्खयोषित एव वा। मृताहः स्वमतिक्रम्य चांडालः कोटिजन्मसु ॥२४६॥ पित्रोः क्षयाहे संप्राप्त यः कुर्यात्तिलतर्पणम् । . . आसुरं तर्पणं ज्ञेयं तत्तोयं रुधिरंभवेत् ॥२४७॥ आपोशानं करे विप्रे संकल्पं यः समाचरेत् । नष्टं भवतितच्छ्राद्ध पितृणां नोपतिष्ठति ।।२४८॥ आपोशानं करे कृत्वा आशीर्वादं करोति यः। अभोज्यं तद्भवेदन्नं भुक्त्वा चान्द्रायणं चरेत् ॥२४॥ भूमौ यस्तर्पणं कुर्यात् कांस्यतोयं तथैव च । तर्जन्यंगुष्ठमध्ये तु तज्जलं रुधिरं भवेत् ।।२५०।। अगोधूमं तु यच्छ्राद्ध माषमुद्गविवर्जितम् । तैलपक्वेन रहितं तच्छ्राद्ध निष्फलं भवेत् ॥२५॥ माषान्नं पायसं दद्याच्छाद्ध गव्यं विशेषतः । . आचन्द्राकं भवेत्तृप्तिः भोजने पिंडदानयोः ।।२५२।। नैककाले द्वयं स्नानं स्नानद्वये न तर्पणम्। नेकपादे द्वयं श्राद्धं न दिवा भोजनद्वयम् ॥२३॥ सूक्तस्तोत्रजपेत्युक्त्वा पिंडाघ्राणं च दक्षिणाम् । आह्वानं चागतं चाध्य विना च परिवेषणम् ॥२५४॥