________________
श्राद्धवर्णनम्
२५१३ आमंत्रिणो(त)गतं विप्रं निवारयति दुर्मतिः। ब्रह्महत्यामवाप्नोति शूद्रयोनिषु जायते ॥२३३।। आमंत्रितस्तु यो विप्रो भोक्त मन्यत्र गच्छति । नरकाणां शतं गत्वा चांडालेष्वभिजायते ॥२३४॥ सपवित्रेण हस्तेन न दद्याद्गंधलेपनम् । दीयते यदि मूढेन निराशाः पितरोगताः ॥२३॥ अनग्निकस्य विप्रस्य यदन्नं हूयते करे। तदन्न प्रक्षिपेदग्नौ भुक्त्वा चान्द्रायणं न्वरेत् ॥२३६।।
अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम् ।' 'न याचते द्विजोमूढः सविप्रः श्राद्धघातकः ॥२३७॥
अपेक्षितं न यो दद्याच्छाद्ध वै उपकल्पितम् । अधोगत्वा सुघोरासु तिर्यग्योनिषु जायते ॥२३॥ शब्देनापोशनं पीत्वा शब्दे न घृतपायसम् । शब्देनापः पयः पीत्वा सुरापानसमं भवेत् ।।२३।। अत्युक्तमन्नं विप्रस्तु पाणिनास्पर्शते यदि । त्रयस्ते नरकं यान्ति दाता भोक्ता च पूर्वजाः ।।२४०॥ अप्रवाहोदकं स्नानं विप्रपादाभिषेचनम् । गायत्री जपमध्यंच आदित्यभिमुखोभवेत् ।।२४।। प्रन्थिर्यस्य पवित्रस्य विप्रपादाभिषेचनम् । यथा वहतो वृक्षो देवता पितरस्तथा ॥२४२।। नान्दीमुखोत्सवे दाने द्वादश्यादि व्रतेषु च। पूर्वाभिमुखतः कुर्याद्विप्रपादाभिषेचनं ॥२४३।।