________________
२५१२
व्याघ्रपादस्मृतिः स्वयं वा पच्यते पाकः पत्नी वा पच्यते यदि । पुत्रेण पच्यते पाकः स्वयंपाकः स उच्यते ॥२२२।। मातृपाकं तु भुजीयात् स्त्रीपाकं तु विशेषतः ।
आत्मपाकं पवित्रं च व्याघ्रस्य वचनं यथा ॥२२३॥ यदि भार्या अशक्त न श्राद्धपाकेषु कारिणम् । दृष्टिपूतः समंतोयं दरिद्रमजलं यथा ॥२२४।। न कन्या क्रियतेपाकं न पाकं चान्यगोत्रजाः । विधवा च तथा वंध्या गर्भस्रावी च दुर्मुखी ॥२२॥ एताः पाकं न मुंजीत पितॄणां नोपतिष्ठति । श्राद्धान्नपाके विधवापरस्त्री न वितृप्यते ये पितरोन देवाः॥ नोदके नैव चाज्येन नान्नेनैव कदाचन । चित्राहुतिवलिं चैव न कुर्याच्छ्राद्धभुद्विजः ॥२२७।। तीर्थयात्राविवाहेषु संग्रामे देवतालये। उपनीतोत्सर्जनेषु स्पृष्टास्पृष्टं न विद्यते ।।२२८॥ सूतकान्नं नवश्राद्ध मासिकान्नं तथैव च । हीनाचारद्विजस्यान्नं भुक्त्वा चान्द्रायणं चरेत् ।।२२।। आसने पादमारूढं प्रत्यक्षं लवणं तथा। मुखेन धमितं चान्नं तुल्यं गोमांस भक्षणम् ।।२३०॥ समीपस्थानतिक्रम्य ब्राह्मणान् वेदपारगान् । दाने भोजनकाले च तत्फलं निष्फलं भवेत् ।।२३१॥ पूजयेत् श्राद्धकालेषु यतिनं ब्रह्मचारिणम् । विप्रानुद्धरते पापात् पितृमातृगणैरपि ॥२३॥