SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ श्राद्धवर्णनम् एकालिंगे करे तिस्र उभयोर्मृद्द्द्वयं स्मृतम् । पंचापाने दशैकस्मिन् उभयोः सप्त मृत्तिका || २१३|| एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणाम् । वानप्रस्थस्य त्रिगुणं यतीनां च चतुगु णम् ॥२२४॥ संध्याहीनोऽशुर्नित्यमनर्हः सर्वकर्मसु । २५११ इह जन्मनि शूद्रत्वं मृते श्वानोऽभिजायते ॥ २१५॥ उष्णोदकेन सप्ताहं द्विजः शूद्रत्वमाप्नुयात् । उष्णोदकैवृथा स्नानं वृथाजाप्यमवैदिकम् ॥ २१६॥ वृथाश्राद्धमदक्षिणम् । अश्रोत्रिये वृथादानं असामर्थ्याच्छरीरस्य वैदिकं श्रुत्वा दृष्ट्वास्पृष्ट्वा प्रभाषितम् ||२१७|| संध्याविनाशयेज्जप्यं तत्सर्वं निष्फलं भवेत् । उल्लंघयति संध्यां यः स याति नरकं ध्रुवम् ॥२१८॥ तस्मान्न लंघयेत्संध्यां सायंप्रातर्द्विजः सदा । अकृत्वा वैश्वदेवं तु भुजंते ये द्विजाधमाः ॥ २१६॥ वृथा तेनान्नपानेन काकयोनिं व्रजन्ति ते । कृत्वालं पादशौचं विमलमथजलं त्रिः पिबेदुन्मृजेद्विःतर्जन्यंगुष्ठयुग्मात्सजलमभिमृशेन्नासिकारन्ध्रयुग्मं ॥ अंगुष्ठानामिकाभ्यां नयनयुगयुतं कर्णयुग्मं कनिष्ठांगुष्ठाभ्यां नाभिदेशं हृदयमथतलेनांगुलीभिः शिरोंसौ ॥ २२० श्मशाने शूद्रसंपर्के चांडालादि प्रदर्शने । रोदने व्याकुले देशे न पठेत महालये ॥ २२१ ||
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy