________________
२५१०
व्याघ्रपादस्मृतिः
आमंत्रितो जपेद्दोग्ध्रीं नियुक्तस्तु निषंगिणः । उत्थायवामदेव्यं तु श्राद्धदोषैर्न लिप्यते ॥ २०२॥ कन्यादानं पिंडदानं विप्राणां पादसिंचनम् । आसन्नायां च भार्यायां केवलेन कृतं वृथा || २०३|| भतृ णा च हता नारी साहंकारा तथैव च । तस्या हस्तान्नभुंजीत श्राद्धकालेषु वर्जयेत् ॥२०४॥ अनाश्रमी तु यः स्तेयो द्विजरूपधरस्तथा । तस्मै श्राद्धानि यो दद्याद्राक्षसेभ्यः प्रयच्छति ||२०५|| घृतहीनं तु योऽधीते (भुङ्क्त ) नरस्त्वाहुतिपंचकम |
पश्चाद् घृतं तु यो भुंक्त े द्विजश्चान्द्रायणं चरेत् ॥ २०६॥
इक्षुरापः पयोमूलं फलं ताम्बूलमौषधम् । भक्षयित्वाऽपि कर्तव्यं देवाग्निपितृतर्पणम् ॥२०७॥ गुरुरभिर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । गुरुरेवपतिः स्त्रीणां सर्वस्याभ्यागतो गुरुः || २०८ ।। सर्वमन्नमुपादाय सतिलं दक्षिणामुखम् । उच्छिष्टसन्निधौपिण्डं दद्याद्वै पितृयज्ञवत् ॥ २०६॥ पादप्रक्षालनादूध्वं यावद्विप्रविसर्जनम् ।
1
तावच्छ्राद्धं प्रकुर्वीत नाशौचं न च सूतकम् || २१०॥ यजुषां पिंडदाने तु माषान्नं यः परित्यजेत् । स वै नरकमाप्नोति निराशाः पितरोगताः ॥२११॥ प्रागादिप्रत्यगतस्य इति वाजसनेयिनां । उदगादि दक्षिणान्तं दैवैपित्र्ये च कर्मणि ॥ २१२ ॥