SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ श्राद्धवर्णनम् २५०६ उच्छिष्टशवचाण्डालनखं च खरकाकयोः। चन्द्रसूर्यग्रहे चैव स्नानं कुर्यादमंत्रकम् ॥१६॥ अपत्नीके प्रवासे च यस्य भार्या रजस्वला । आमश्राद्धं प्रकुर्वीत वर्जयित्वाक्षयेऽहनि ॥१६२।। वृद्धावादौ क्षयेचान्ते मध्येजुह्वति पर्वणि । पितृपक्षे तथाचान्ते वैश्वदेवो विधीयते ॥१६॥ वोदने परमान्ने वा द्रोणमासाद्य मूढधीः । तत्पात्रं पूरयेघृतं तघृतं रुधिरं भवेत् ॥१४॥ दशमीद्वादशीश्राद्ध अमापूर्णा तु संक्रमे । अस्ते नक्त तु यो भुंक्त भुक्त्वा चान्द्रायणं चरेत् ॥१६॥ अग्निना भस्मनावापि स्तंबेन सलिलेन वा। द्वारस्य चोपमार्गेण पंक्तिदोषो न विद्यते ॥१६॥ तिलकेन विनाविप्रो पुण्यस्त्री कुकुमं विना। द्वावेतौ गर्हितौलोके दैवेपित्र्ये च कर्मणि ॥१६७।। यागं दानं च योगं च म्वाध्यायं पितृतर्पणम् । भस्मीभवति तत्सर्वमूर्ध्वपुण्ड विना कृतम् ॥१८॥ विना यज्ञोपवीतेन विना पद्धशिखेन च । विशेषोध पवीतेन यत्कृतं नैव तत्कृतम् ॥१६॥ पूर्वतो सर्वदेवाश्च दक्षिणे पितरस्तथा । तस्मात्सर्वप्रयत्ने न वामे गंडूषमुत्सृजेत् ॥२०॥ हस्तपात्रे च धौते च क्रियते पंक्तिवारणम् । प्रागुदीची विवाहे च प्रतीची दक्षिणस्तथा ॥२०१॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy