________________
२५०८
व्याघ्रपादस्मृतिः
आचान्तोप्यशुचिस्तावत् यावत्पात्रमनुद्धतम् । उद्ध. तोप्यशुचिस्तावत् यावन्नोन्मृज्यते मही ॥ १८०॥ l गृहेऽपि शिशुदेवानां यतीनां ब्रह्मचारिणाम् । श्राद्धपाको न दातव्यो यावतपिंडान्ननिवयेत् || १८१|| शिखामात्रं तथापिंडान्पूर्व पश्चिमतोनयेत् । अनेन विधिना काय पितॄणां त्तमक्षयम् ॥१८२॥ वह्वचं भोजयेच्छ्राद्ध पितृस्थानेषु सर्वदा | श्रोत्रियं च गुणाढ्यं च पितृख्यातकुलं तथा ॥ १८३॥ वह्वच भोजयेच्छ्राद्ध याजुषैः सामगैस्तथा । अक्षयं तद्भवेच्छ्राद्धं व्याघ्रस्य वचनं यथा ॥ १८४॥ वह्वचं तु परित्यज्य श्राद्ध कर्मणि यो द्विजः । निष्फलं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ॥१८५॥ वन विनाश्राद्ध ये कुर्वन्त्यन्यशाखिनः । अज्ञानात्कुरुते श्राद्धं पितॄणां नोपतिष्ठति ॥ १८६॥ द्वौ दैवाथर्वणौ विप्रौ ऋग्यजुः सामवेदिनः । क्रमाच्छ्राद्ध नियुंक्त े च व्याघ्रस्य वचनं यथा ॥ १८७ । अथवा द्वौ विश्वेदेवौ वहचं पितरस्तथा । यजुषं पितामहं ज्ञेयं सामंस्यात् प्रपितामहम् || १८८|| अनेन विधिना श्राद्धं कृतमक्षय्यतां ब्रजेत् । उक्तलक्षणकं न स्यात् स्वशाखं भोजयेत्ततः ॥ १८६॥ बह्वचं यजुषं चैव सामगं च गुणान्वितम् । अहंकारेण संत्यक्त्वा श्राद्धकृन्निष्फलं भवेत् ॥ १६०॥
।