________________
श्राद्धवर्णनम्
२५०७ आत्ममातामही पत्नी दुहिता च स्वंसा तथा। पितृष्वसा मातृभगिनीत्येते. वै सप्त गोत्रजाः ॥१६॥ मृत्तिका गोशकृद्दभानुपवीतं तथोत्तराम् । दत्वा गुणाढ्यविप्राय कुलजाय तथोत्तरे ॥१७०।। अनौकरं तु देवस्य पितृव्या द्विजतर्पणे । मानसात्पिण्डदानाञ्च नरः क्रियाद्विकरेण तु ॥१७॥ एक पंक्त्त्युपविष्टानां ब्राह्मणानां श्राद्धकर्मणि । भक्ष्यं भोज्यं समं देयं दक्षिणात्वनुसारतः ॥१७२।। पिंडदानं च यजुषां वह्व,चां द्विजतर्पणम् । श्राद्धशब्दाभिधेयं स्यादुभयं सामगायिनाम् ॥१७३॥ स्वशाखोक्त परित्यज्य परशाखोक्त समाचरेत् । अप्रामाण्यमृषि कृत्वा-अंधं तमसि मजवि ॥१७४।। अनग्निब्रह्मचारी च स्त्री च नैव च नैव च । चालयेत्पिडपात्राणि स्वयं शिष्योऽथवा सुतः॥१७॥ लेपभागश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिंडदः सप्तमस्तेषां सापिण्ड्य सप्तपूरुषम् ॥१७६।। यच्च पाणितले दत्तं (१) पूर्वमबुद्धयः। . निराशा पितरो यान्ति शेषमन्नं लभन्ति ते ॥१७७।। केतकी चूतकी चैव बर्वरी करवीरकैः । जातिदर्शनमात्रेण निराशाः पितरो गताः ॥१७॥ कूष्मांडं महिषीक्षीरं आढक्या राजसर्षपाः । मसूराश्वणकाश्चैव षडेते श्राद्धघातकाः॥१७॥