________________
श्राद्धवर्णनम्
२४६६ पादप्रक्षालनार्थाय द्वौविप्रो प्राङ्मुखस्थितौ । उदङ्मुखास्त्रयोविप्रा स्वयं वै दक्षिणामुखः ॥८॥ पादप्रभृति मूर्यन्तं देवानां पुष्पपूजनम् । शिरःप्रभृतिपादान्तं पितृणां पुष्पपूजनम् ।।८२॥ श्राद्धकाले यदा पत्नी वामे वारिंप्रदापयेत् । पितरस्तस्य गृह्णीयात् यावद्वशतं समाः ॥८३।। कन्यादाने विवाहे च प्रतिष्ठायज्ञकर्मणि । सर्वेषु धर्मकार्येषु पत्नी दक्षिणतः स्मृता ॥४॥ दक्षिणे वसति पत्नी हवने देवतार्चने । शुश्रूषा रतिकाले च वामभागे प्रशस्यते ॥८॥ जातकर्मादि कभणां कर्मकर्तुश्चदक्षिणे । तिष्ठेद्वरस्य वामे च विप्राशीर्वचनं यथा ॥८६॥ त्रिषु स्थानेषु सा पत्नी वामभागे प्रशस्यते । पादशौचे पितृणां च रथारोहे भृतौ तथा ।।८।। श्राद्ध पत्नी च वामांगे पादप्रक्षालने तथा । नान्दीश्राद्ध च सोमे च मधुपर्के च दक्षिणे ॥८८॥ आमन्त्रितस्तु यो विप्रो भुक्त्वा अन्यत्रगच्छति । नरकाणां शतं भुक्त्वा चांडालेष्वपि जायते ॥८६॥ एकवस्त्रा तु या नारी मुक्तकेशा तथैव च । ललाटे कुंकुमं दृष्ट्वा निराशाः पितरो गताः ॥१०॥ मुक्तकेशा तु या नारी रक्तवस्त्रं कथंचन । हसते वदते चैव निराशाः पितरो गताः ॥६॥