________________
॥ ॐ नमः शिवाय ॥
अथ
* काश्यपस्मृतिः *
प्रायश्चित्तवर्णनम्
अथ काश्यपीयान् गृहस्थधर्मान् व्याख्यास्यामः
आहिताग्निः स्वदारनिरतोऽचाग्नयग्निहोत्री स्नातामृतुकालगामी देवपितृमनुष्यभूतब्रह्मयज्ञानुसेवमानः एकद्वित्रिचतुर्णां ब्राह्मणान् कुर्वाणो व्रतनियमहोमजाप्यपरो मातृपितृभक्तो दारापत्यपोषकः शेषानुभोजी उपवासी त्रैवर्णिकमेदक सूतकान्नपरिहरमाणोऽलांगलवृत्तिः । तत्र च भूम्यपोढने वृक्षच्छेदने नास्यधर्मोभवति । कूपसेतुतड़ागविप्रदेवतायतनभेदने प्रायश्चित्तं ब्राह्मणेभ्यो निवेद्य चतस्रआहुतीर्जुहुयात् ।
इदं विष्णुरिति प्रथमा, मानस्तोक इति द्वितीया, स्ववासा इति तृतीया, दंष्ट्राभ्यामिति चतुर्थीरत्यस्रपोढयेत् तस्यैव देवतायै पूर्णाहुति जुहुयात् ।
अथ गोबलीवर्दमहिषधूर्याविकहिंसावाप्तौ प्रायश्चित्तकामकारतामित्येके । दोग्धृदमनपर्यस्तपाषघट्टनघंटाभरणभूषणयोजन तैलमंडौषधभेषज्यत्रितयमाणे व्याप्तानामकामावाप्त्यै ( प्तौ ) प्रायश्चित्तं -