________________
२४८२
ब्रह्मोक्तयाज्ञवल्क्यसंहिता [त्रयोदशोदन्तजातानुखातोवाकृतचूडस्तु कर्मणि । त्रिरात्रं सूतकं तस्य भाषितं ब्रह्मणापुरा ॥१०॥ गर्भमध्ये विपत्तिःस्याद्दशाहं सूतकम्भवेत् । जीवेजाते ततो मृत्युः सद्यः शौचं विधीयते ॥११॥ द्विवर्षे निक्षिपेद्भूमौ त्रिवर्षे दाहमुच्यते । जीवंजातोरक्तिपाकर्म(?)समाचरेत् ॥१२॥ अन्तर्दशाहे स्याचेत्पुनर्मरणजन्मनि । तावत्स्यादशुचिविप्रो यावदस्य दिनांन्दश ॥३॥ अन्ते वै दिवसेतस्मादधिकं तु दिनद्वयम् । रात्रिशेषेण च द्वाभ्यां प्रभाते त्रिभिरेव च ॥१४॥ दिवाकरोदयात्पूर्व सूतकं मृतकम्भवेन् । एकविंशत्यहे यज्ञे विवाहे दशवासरे ॥१५॥ त्रिरात्रव्रतवन्ध्यं (न्ध) स्याच्छ्राद्धं तदहउच्यते । अभ्यंगादिविवाहेषुयज्ञेषु वा रणे कृते ॥१६॥ श्राद्धद्वन्तं(?) समुत्पन्ने नाशौचं मृतसूतके ! यज्ञदीक्षान्तविप्रस्य यज्ञस्थाना तु ऋत्विजः ॥१७|| यतीनां ब्रह्मयज्ञविदुषो नाक्षु(शुद्विब्रह्मचारिणः । सत्र याची (गी) च यो नित्यं गरुड़ध्वजपूजकः ॥१८॥ ब्रह्मचारी यतिश्चैव सर्वे ते त्यक्तसूतकाः । शुद्धयते प्रसवे धेनुर्दिवसे दशमे सदा ॥१६।। अजाविका(च)श्वमहिषी शुद्धयन्तेविंशतिभिर्दिनः । एकाहात्च्छुद्धते विप्रो योऽग्निर्वेदसमन्वितः ।।२०।।