________________
अथ त्रयोदशोऽध्यायः
आशौचवर्णनम् शुद्धयते द्विचतुर्मासै स्वल्प गर्भ (?) विनिमृतौ । अहोभिः शुद्धयते शेषैः (१) अर्थाभवति नाशने ॥१॥ दासी दासे तथा कन्या सूयते म्रियते यदि । त्रिरात्रंसूतकंतस्य भाषितं च प्रजापतिः ॥२॥ अप्रदत्ता भवैकाह प्रदत्तामुभयत्रयः। विवाहिता तु या कन्या सूतकं श्वसुरगृहे ॥३॥ शवसूति समुत्पन्ने सूतकं तु यदा भवेत् । शवेन शुद्धयते सूती न सूता शवशोधिनी ॥४॥ शवसूती समुत्पन्ने पुत्रजन्मयदा भवेत्। . कुर्यात्तात्कालिकीशुद्धिरशुद्धि पुनरेवहि ॥५॥ आत्रिपक्षात्रिरात्रं स्यादाषण्मासाच्च पक्षिणी । अहः सम्वत्सरादर्वाक्पूर्णो दत्तोदकं शुचिः ॥६॥ पितरौ चेन्मृतौ स्यातां कथन्तु सूतकम्भवेत्।। श्रुत्वातहिनमारभ्य दशाहं सूतकी भवेत् ॥७॥ आ (अ) दत्त जनात्सद्योआचूडान्नैषिकीस्मृतः । त्रिरात्रमव्रतादेशे दशरात्रमतःपरम् ॥८॥ द्व सन्ध्ये सद्यमित्याहुढे दिने नैषिकीस्मृता। दिनद्वयं तु रात्र्यैका पक्षिणी तु विधीयते ॥६॥