________________
२४८० ब्रह्मोक्तयाज्ञवल्क्यसंहिता [द्वादशो
मुखे तस्य प्रदातव्य जीवः शुद्धो भवेत्ततः । दिन(?) शास्तमते राजादेवो राज्ञश्च शासकः ॥५६।। भार्यागोधात्त्वनकुल मल्दूकश्च(मूषकं च) तथैवच । हत्वा व्यहं पिवेत्क्षीरं पादकृच्छ्र समाचरेत् ॥६॥ उरगेत्यायसो दण्डः पचकत्रयमासकः । काले घृतघटो देयः उष्णगुजाहकेशुकम् ॥६१।। एकवर्षे हते वत्से कृच्छ्रपादो विधीयते । अबुद्धि पूर्व संस्पृष्ट्वा सूर्यरश्मिषु शुद्धयति ॥६२।। मृतकञ्च श्वपाकं च उदक्या पतितं तथा। मद्यपम्लेच्छचाण्डलं स्पृष्ट्वा स्नानं सहाम्बरैः ॥६३॥ इति श्रीब्रह्मोक्त याज्ञवल्क्येधर्मशास्त्रे शुद्धि प्रकरणमनाम
द्वादशोऽध्यायः।