________________
ऽध्यायः] प्रायश्चित्तवर्णनम्
२४७६ ब्रह्महत्याव्रतंचापि वत्सरत्रितयं चरेत् । वैश्यहाब्दं चरेदेतद्दद्यादेकशतंगवाम् ॥४८॥ शूद्रहन्ता च षण्मासं व्रतं चरेद्दारुणम् । गवां च दशकं दद्याच्छूद्रहन्ताविशेषतः ॥४॥ अप्रदुष्टां प्रियां हत्वाशूद्रहत्याव्रतं चरेत् । प्रमादेन हतं (तो) येन बालको मुनिसत्तमः ॥२०॥ गोमूत्रं यावकाहारं स्पृष्ट्वाकेदार(?)शुद्धयति । अविज्ञाततं(?) बालं संज्ञाभावात्कथञ्चन ॥१।। सज्ञाता ज्ञातवा पापी (?) ज्ञातातीर्थन शुद्धति । प्रमादेऽवा प्रमादेवा वाले (१) निपातिते ॥२॥ गङ्गा स्नानं च केदारं प्राजापत्यव्रतं चरेत् । विश्वनाथं च केदारं हरिं भागीरथीं तथा ॥५३।। स्नात्वा वै संस्पृशेल्लिङ्ग बालघाती विशुद्रयति । अयोनौ च वियोनौ च पशुयोनौ तथैवच ॥४॥ समुत्सृजंते ( ति ) ये शुक्र ब्रह्महाफलमश्नुते । भार्यासखी कुमारी च कुजीवी(चा)न्त्यजा सुता ॥५४॥ स्वगोत्री (त्रा) स्वसुताश्चैव गत्वा स गुरुतल्पगः । पितृष्वसां मातुलानी स्नुषां मातृस्नुषामपि ॥५६।। मातुःपत्नी स्वभगिनीमाचार्यतनयां तथा। आचार्यपत्नी स्वसखों गत्वा स गुरुतल्पगः ॥७॥ छित्वालिङ्ग वधस्तस्य मुखेदद्यादुल्मुकंतथा । द्वादशाङ्गुलमात्रंतु लौहशंकुस्तथैवच ॥८॥