________________
२४७८
ब्रह्मोक्तयाज्ञवल्क्यसंहिता
[ द्वादशो
तपो दा (मा) नापमानञ्च नव गोप्यानि सर्वदा । प्रायोज्यमृणशुद्धिः स्याद्दानधर्म विशुद्धयति ||३८|| पात्रे धनं वार्धुषितं दत्वा शुद्धिमवाप्नुयात् । आदातुश्चैन्द्र शुद्धार्थमिष्ट वश्चिनरी (?) स्मृतः ||३६|| लोमभ्यः स्वाहेत्यवैहि लोमभ्यश्च तदैतनु । मन्त्रान्तं जुहुयाद्वापि मन्त्रवीर्यं यथाक्रमम् ॥३६॥ संग्रामे वा हतोलक्षः भूयः शुद्धिमवाप्नुयात् । अरण्ये प्रान्तरे जल्वा त्रिः कृत्वो वेदसंहिताम् ||४०|| शुद्धयते चाम्यता शीस्यात्प्रतिस्त्रोत्पांतां (?) सरस्वती । वाल (बाल) वासा जटीवास्याद्ब्रह्महत्याव्रतं चरेत् ||४१ || पिण्याकंवा कणान्नं वा भक्षयेच समाहितः । गायत्र्याश्च जपेत्कोटि ब्रह्महत्यां व्यपोहति ॥४२|| गायत्रीलक्षषष्ट्या च मुच्यते गुरुतल्पगः ।
ब्रह्मा ब्राह्मणत्राणाद्गां दद्याच्च तथा युताम् ||४३|| घ घाणं (?) तु दशाब्दे कर्म कीर्त्तयेत् । अनिदो गरदश्चैव शस्त्रपाणिर्धनापहः क्षेत्रदारापहारी च षडेतेह्याततायिनः । शस्त्रपाणि समायान्तं यदि विप्रः षडंगवित् ॥ ४५ ॥ जिघांसन्तं जिघांसीयान्न तेन ब्रह्महाभवेत् । अताडितमनक्लेशं न वियोगो धनस्य च ॥४६॥ म्रियते च परार्थेषु न दोषः परिविद्यते ।
वृषमेकं सहस्रं गाः दद्यात्क्षण ( विप्र ) बधे पुमान् ॥४७॥
118811