SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ २४७४ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [द्वादशो यादृक्तादृगवस्थासु ब्राह्मणं न प्रकोपयेत् । यथा कुम्भो नदी तीरे यथाऽग्नि स्तृणाश्रये ॥६८॥ सन्तुष्टस्तारये ह गं दुष्टो हन्ति च तत्कुलम् । आदियो वरुणो विष्णुब्रह्मा सोमो हुताशनः ॥६६॥ शूलपाणिश्च भगवान्नभिवन्दन्ति भूमिदम् । इति श्रीब्रह्मप्रणीते याज्ञवल्क्ये धर्मशास्त्रे दानप्रकरणम् नाम एकादशोध्यायः । अथ द्वादशोऽध्यायः दत्त्वा द्रव्यञ्च यः सम्यक्पुनरादातुमिच्छति । दत्ताप्रदानिकं नाम तद्विवादपदं स्मृतम् ॥१॥ अदेयमथदेयं वा दत्तवाऽदत्तमेव च। व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः ॥२॥ तत्रेहाष्टाव देयानि देयमेकविधं स्मृतम् । दत्तं सप्तविधं विद्याददत्तं षोडशात्मकम् ॥३॥ अन्वाहितं याचितकमाधिः साधारणं च यत् । निक्षेपं पुत्र दारञ्च सर्वस्वं चान्वये सति ॥४॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy